||Sundarakanda ||

|| Sarga 30||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकांड.
अथ त्रिंशस्सर्गः

हनुमानपि विक्रांतः सर्वं शुश्राव तत्त्वतः।
सीतायाः त्रिजटायाश्च राक्षसीनां तर्जनम्॥1||
अवेक्षमाणः तां देवीं देवतामिव नंदने।
ततो बहुविधां चिंतां चिंतयामास वानरः॥2||

स॥विक्रांतः हनुमान् तत्त्वतः राक्षसीनां सीतायाः तर्जनम् त्रिजटायाश्च अपि सर्वं शुश्राव॥ तां देवीं नंदने देवतां इव अवेक्षमाणा वानरः ततः बहुविधां चिंतयामास॥

The valiant Hanuman in principle heard the threatening of Sita by Rakshasas as well as Trijata's. Looking at Sita who is like a goddess in Nandana , the Vanara started thinking in many ways.

यां कपीनां सहस्राणि सुबहून्ययुतानि च।
दिक्षु सर्वासु मार्गंते सेय मासादिता मया॥3||
चारेण तु सुयुक्तेन शत्रोश्शक्ति मवेक्षता।
गूढेन चरता तावत् अवेक्षित मिदं मया॥4||

स॥ कपीनां सुबहूनि सहस्राणि अयुतानि च सर्वासु दिक्षु यां मार्गंते सा इयं मया आसादिता॥सुयुक्तेन शत्रोः शक्तिं अवेक्षता गूढेन चरता चारेण मया इदं अवेक्षितं तावत् ॥

Among the many hundreds and thousands of Vanaras searching for her in all directions, I have found her here. Roaming in secret like a spy, intelligently seeing the strength of the enemies, I have seen everything.

'राक्षसानां विशेषश्च पुरीचेयमवेक्षिता।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ||5||
युक्तं तस्याsप्रमेयस्य सर्व सत्त्व दयावतः।
समश्वासयितुं भार्यां पतिदर्शन कांक्षिणीम्॥6||

स॥ राक्षसानां विशेषः च अयं पुरी च अस्य राक्षसाधिपतेः रावणस्य प्रभावः च अवेक्षिता॥ सर्वसत्त्व दयावतः अप्रमेयस्य तस्य पतिदर्शन कांक्षिणीं भार्यां समश्वासयितुं युक्तं॥

I have seen the ability of Rakshasas , this city as well as the power of the Ravana the king of Rakshasas. It is proper to console her who is anxious to see her husband , who has compassionate to all, who is of immeasurable power

अहमाश्वासया म्येनां पूर्णचंद्रनिभाननां।
अदृष्टदुःखां दुःखार्तां दुःखस्यांतमगच्छतीम्॥7||
यद्यप्यहं इमां देवीं शोकोपहतचेतसां।
अनाश्वास्य गमिष्यामि दोषवत् गमनं भवेत्॥8||
गतेहि मयि तत्रेयं राजपुत्री यशस्विनी।
परित्राण मविंदंती जानकी जीवितं त्यजेत्॥9||

स॥ एनां पूर्णचंद्रनिभाननां अदृष्टदुःखां दुःखार्तां दुःखःस्य अंतं अगच्छतीं अहं अश्वासयामि ॥यदि शोकोपहतचेतसां इमां देवीं अनाश्वास्य गमिष्यामि (तत्) दोषवत् गमनं भवेत्॥ मयि तत्र गते यशस्विनी राजपुत्री जानकी परित्राणम् अविंदंती जीवितं त्यजेत्॥

I shall console this moon faced lady who has not seen sorrows before, and who is not seeing the end of sorrows. If I go away without consoling this lady overwhelmed with sorrow, that will be blame worthy. If I go away this renowned princess not knowing the way out will give up her life.

'मया च स महाबाहुः पूर्णचंद्र निभाननः।
समश्वासयितुं न्याय्यः सीतादर्शनलालसः॥10||
निशाचरीणां प्रत्यक्षं अनर्हं चापि भाषणम्।
कथं नु खलु कर्त्वव्यं इदं कृच्छगतो ह्यहम्॥11||
अनेन रात्रि शेषेण यदि नाश्वास्यते मया।
सर्वथा नास्ति संदेहः परित्यक्षति जीवितम्॥12||

स॥ पूर्णचंद्रनिभाननः महाबाहुः सीतादर्शन लालसः ( रामः) मया समश्वासयितुं न्याय्यः ॥ निशाचरीणां प्रत्यक्षं भाषणं च अनर्हं अपि । कथं नु कर्तव्यं नु । अहं कृछ्छगतो हि ॥ यदि अनेन रात्रिशेषेण न आश्वास्यते सा सर्वथा जीवितं परितक्ष्यति । संदेहः न अस्ति॥

Providing relief to the strong armed Rama who has a face like full moon, who is anxious to see Sita is my duty. Talking in front of the Rakshasas the night beings is not good. What is my duty I am at a loss. If I do not speak before the end of the night she will give up her life. There is no doubt about that

'रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीत् वचः।
किं अहं तं प्रतिब्रूयां असंभाष्य सुमध्यमाम्॥13||
सीता संदेशरहितं मां इतः त्वरया गतम्।
निर्दहे दपि काकुत्‍स्थः क्रुद्धः तीव्रेण चक्षुषा ||14||
यदि चो द्योजयिष्यामि भर्तारं राम कारणात्।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥15||

स॥ यदि रामः मां पृच्छे किं मां सीता अब्रवीत् वचः तदा सुमध्यमाम् असंभाष्य अहम् तं किं प्रतिब्रूयाम्॥ सीता संदेशरहितं इतः त्वरया गतं मां काकुत्‍स्थः क्रुद्धः तीव्रेण चक्षुषा निर्दहेत् अपि॥ रामकारणात् भर्तारं यदि च उद्योजयिष्यामि ससैन्यस्य तस्य आगमनं व्यर्थं भविष्यति ( यदि सीता जीवितं त्यजेत्)||

If Rama asks me what did Sita speak then how can I give an answer if I do not talk to her. If I go away without carrying a message from Sita then the scion of Kakutstha will burn me up with anger in his eyes. For Rama's sake if the King Sugriva comes here with his full army then his coming will be useless ( if Sita gives up her life)

अंतरं त्वहमासाद्य राक्षसीनामिह स्थितः।
शनैराश्वासयिष्यामि संताप बहुळामिमाम्॥16||
अहं त्वतितनुश्चैव वानरश्च विशेषतः।
वाचं चो दाहरिष्यामि मानुषी मिह संस्कृताम्॥17||

स॥ अहं इह स्थितः राक्षसीनाम् अंतरं असाद्य संतापबहुळां इमां शनैः आश्वासयिष्यामि ॥ अहं तु अतितनुश्च । विशेषतः वानरः च । इह संस्कृतां मानुषीं वाचं च उदाहिरिष्यामि ।

I will wait here and at suitable time I will slowly console this lady who is in deep sorrow. I am of a small body. More specially a Vanara. I will use the language cultured men.

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्।
रावणं मन्यमाना मां सीता भीता भविष्यति॥18||
वानरस्य विशेषेण कथं स्यादभिभाषणम्।
अवश्यमेव वक्तव्यं मानुषं वाक्य मर्थवत्॥19||
मया सांत्वयितुं शक्या नान्यथेय मनिंदिता।

स॥ यदि द्विजातिः इव संस्कृतां वाचं प्रदाश्यामि मां रावणं मन्यमाना सीता भीता भविष्यति । विशेषेण वानरस्य अभिभाषणं कथं नु ॥ एवं अवश्यम् अर्थवत् मानुषं वाक्यं वक्तव्यं।अन्यथा इयं अनिंदिता सांत्वयितुं मया न शक्या ॥

If I speak Samskruta like the twice born one , thinking that I am Ravana Sita will be scared. Specially how can a Vanara speak like this. So I should speak the common language of people. Otherwise I will not be able to pacify her.

सेय मालोक्य मे रूपं जानकी भाषितं तथा॥20||
रक्षोभि स्त्रासिता पूर्वं भूय स्त्रासं गमिष्यति।
ततो जात परित्रासा शब्दं कुर्यान् मनस्विनी॥21||
जानमाना विशालाक्षी रावणं कामरूपिणम्।

स॥ ।पूर्वं रक्षोभिः त्रासिता सा इयं जानकि मे रूपं आलोक्य भाषितम् तथा भूयः त्रासं गमिष्यति ॥ ततः मनस्विनी विशालाक्षी मां कामरूपिणं रावणं जानमाना जातपरित्रासा शब्दं कुर्वन् ॥

Already frightened by the Rakshasas , this Janaki seeing my form and the speech she will be scared again. Then the wide eyed sensitive lady Sita , thinking that I am the Ravana who can take any form, she will make loud noise.

सीताया च कृते शब्दे सहसा राक्षसी गणाः॥22||
नानाप्रहरणो घोरः समेयादंतकोपमः।
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः॥23||
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्।

स॥ सीतयाः कृते शब्दे राक्षसी गणाः नानाप्रहरणः घोरः अंतकोपमः समेयात् ॥ ततः विकृताननः मां सर्वतः संपरिक्षिप्य वधे च ग्रहणे च यथाबलं यत्नं कुर्युः॥

With the sound made by Sita Rakshasa legions armed with different kind of weapons will gather like the dreadful Yama. Then the Rakshasas with hideous faces will surround me and make an effort to capture me or kill me.

गृह्य शाखाः प्रशाखाश्च स्कंधां श्चोत्तमशाखिनाम्॥24||
दृष्ट्वा विपरिधावंतं भवेयुर्भयशंकिताः।
मम रूपं च संप्रेक्ष्य वने विचरतो महत्॥25||
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननः।

स॥ उत्तमशाखिनां शाखाः प्रशाखस्य स्कंधश्च गृह्य विपरिधावंतं दृष्ट्वा भयशंकिताः भवेयुः॥ विकृताननः राक्षस्यः वने विचरतः मां महत् रूपं संप्रेक्ष्य भयवित्रस्ताः भवेत् ॥

Seeing me holding the branches, side branches and trunks of best trees and running, the Rakshasas will get scared. The Rakshasas with hideous faces seeing my great from moving about in the groves will be very scared.

ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि॥26||
राक्षसेंद्र नियुक्तानां राक्षसेंद्र निवेशने |
ते शूलशक्ति निस्त्रिंश विविधायुधपाणयः॥27||
अपतेयुर्विमर्देऽस्मिन् वेगेनोद्विग्नकारिणः।

स॥ ततः राक्षस्यः राक्षसेंद्रनिवेशने राक्षसेंद्रनियुक्तानां राक्षसानां अपि समाह्वानं कुर्युः॥ ते तस्मिन् विमर्दे शूलशक्ति निस्त्रिंश विविधायुधपाणयः उद्वेगकारणात् वेगेन आपतेयुः॥

There after the Rakshasas will invite the attention of the guards employed for the residence of the king of Rakshasas. Those Rakshasas excited will come speedily armed with spears tridents swords and different kinds of weapons for war.

संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम्॥28||
शक्नुयां नतु संप्राप्तं परं पारं महोदधेः।
मां वा गृह्णीयुराप्लुत्य बहव श्शीघ्रकारिणः॥29||
स्यादियं चा गृहीतार्था मम च ग्रहणं भवेत् |
हिंचाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्॥30||
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्।

स॥ ते परितः समृद्धः राक्षसानां बलं विधमन् महोदधेः संप्राप्तुं न शक्नुयाम्॥श्शीघ्रकारिणः बहवः आलुप्त्य मां गृह्णीयुः वा । इयं च अगृहीतार्था स्यात् । मम च ग्रहणं भवेत् ॥ वा हिंसाभिरुचयः इमां जनकात्मजां हिंस्त्यः । ततः रामसुग्रीवयोः इदं कार्यं विपन्नं स्यात्॥

Surrounded by them I might not be able to reach the other end of the ocean. Prompt to act Rakshasas will jump up in the sky to capture me. This lady will not receive any message and I will be captured too. These are interested in acts of violence, and will harm the daughter of Janaka. Then the mission of Rama and Sugriva will be lost.

उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते॥31||
सागरेण परिक्षिप्ते गुप्ते वसति जानकी।
विशस्ते निगृहीते वा रक्षोभिर्मयि संयुगे॥32||
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने।
विमृशंश्च न पश्यामि यो हते मयि वानरः॥33||
शतयोजनविस्तीर्णं लंघयेत महोदधिम्।

स॥जानकी नष्टमार्गे राक्षसैः परिवारिते सागरेण परिक्षिप्ते गुप्ते अस्मिन् उद्देशे वसति॥ मयि संयुगे रक्षोभिः विशस्ते वा गृहीते वा रामस्य कार्यसाधने अन्यं सहायं न पश्यामि ॥ मयि हते यः वानरः शतयोजनविस्तीर्णं महोदधिं लंघयेत् विमृशन् च न पश्यामि ॥

Janaki is hidden in this location, surrounded by the ocean, guarded by the Rakshasas, staying in this secret place. If I am killed or captured in a battle with Rakshasas , I do not see anybody else who can help in accomplishing this task. If I am killed I do not see, even after reflecting carefully , another Vanara who can leap over the hundred Yojana wide ocean.

कांमं हंतुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्॥34||
न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः।
असत्यानि च युद्धानि संशयो मे न रोचते॥35||
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्

स॥ राक्षसां सहस्राणि अपि हंतुं समर्थः अस्मि । कामं तु महोदधेः परं पारं संप्राप्तुं न शक्ष्यामि ॥युद्धानि असत्यानि च संशयः मे न रोचते। कः प्रज्ञः निःसंशयं कार्यं ससंशयं कुर्यात् ।

I am capable of killing thousands of Rakshasas. But reaching the other shore thereafter may not be possible. The war is no doubt unpredictable. Which wise man will take a doubtful task without a question.

प्राणत्यागश्च वैदेह्या भवेत् अनभिभाषणे॥36||
एष दोषो महान् हि स्या न्मम सीताभिभाषणे।

स॥ अनभिभाषणे वैदेह्या प्राणत्यागश्च भवेत् । सीता अभिभाषणे एष महान् दोषः स्यात् ।

If I do not speak Vaidehi will give up her life. If I speak to her that may be a problem too.

भूता श्चार्था विनश्यंति देशकालविरोधिताः॥37||
विक्लबं दूतमासाद्य तमः सूर्योदये यथा।
अर्थानर्थांतरे बुद्धिः निश्चितापि न शोभते॥38||
घातयंति हि कार्याणि दूतां पंडितमानिनः।

स॥ विक्लबं दूतं असाद्य भूताः अर्थाः देशकालविरोधिताः सूर्योदये तमसः यथा विनश्यंति॥अर्थान् अनर्थां अंतरे बुद्धिः निश्चितापि न शोभते । पंडितमानिनः दूताः कार्याणि घातयंति हि॥

If time and place are not propitious , having a confused messenger even sure tasks may fail like darkness is dispelled by the sunrise . Swinging from a course of positive action to an action that is calamitous is not proper. Messengers who assume they are scholars destroy their mission.

न विनश्येत् कथं कार्यं वैक्लब्यं न कथं भवेत् ||39||
लंघनं च समुद्रस्य कथं नु वृथाभवेत्।
कथं नु खलु वाक्यं मे शृणुयान्नो द्विजेत वा ||40||
इति संचिंत्य हनुमांश्चकार मतिमान्मतिम्।

स॥ कार्यं कथं न विनश्येत् । वैक्लब्यं न कथं भवेत् । समुद्रस्य लंघनं कथं नु वृथाभवेत् ॥ मे वाक्यं कथम् नु शृणुयायात् न उद्विजेत् वा इति संचित्य मत्मान् हनुमान् मतिं चकार॥

'How to see that the mission is not destroyed. How can the failure be avoided. How can the crossing of ocean be not wasted'. Thus thinking on 'how to ensure that she is not scared by my words' , Hanuman came to came to a decision.

रामं अक्लिष्टकर्माणं स्वबंधु मनुकीर्तयन्॥41||
नैना मुद्वेजयिष्यामि तद्बंधुगत मानसाम्।

स॥ अक्लिष्टकर्मणां सुबंधुं रामं अनुकीर्तयन् तद् बंधुगतमानसां एनां न उद्वेजयिष्यामि॥

By praising the one who is known for judicious action, who is very dear to her, in whom her mind is absorbed, I will not create fear.

इक्ष्वाकूणां वरिष्टस्य रामस्य विदितात्मनः॥42||
शुभानि धर्मयुक्तानि वचनानि समर्पयन्।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्॥43||
श्रद्दास्यति यथा हीयं तथा सर्वं समादधे॥44||

स॥ इक्ष्वाकूणाम् वरिष्ठस्य विदितात्मनः रामस्य शुभानि वचनानि समर्पयन् मधुरां गिरं प्रबृवन् सर्वाणि श्रावैष्यामि । इयं यथा श्रद्धास्यति सर्वं समाददे॥

Presenting auspicious words about Rama , the esteemed person of Ikshwakus, who has realized self, and make her listen to everything while uttering sweet words , she will then trust me.

इति स बहुविधं महानुभावो
जगति पतेः प्रमदामवेक्षमाणः।
मधुरमवितथं जगाद वाक्यं
द्रुमविटपांतर मास्थितो हनूमान्॥45||

स॥ महानुभावः सः हनुमान् द्रुमविटपांतरं आस्थितः जगति पतेः प्रमदां अवेक्षमाणः बहुविधं अवितथं मथुरं वाक्यं इति जगाद॥

The great Hanuman seated among the branches of the tree and hidden, looking at the wife of the lord of the universe started speaking faithfully.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे त्रिंशस्सर्गः॥

Thus ends the Sarga thirty in Sundarakanda of Ramayana the first poem ever composed by the first poet sage Valmiki.

||ओम् तत् सत्॥